मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ३४

संहिता

पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑ः ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥

पदपाठः

पृ॒च्छामि॑ । त्वा॒ । पर॑म् । अन्त॑म् । पृ॒थि॒व्याः । पृ॒च्छामि॑ । यत्र॑ । भुव॑नस्य । नाभिः॑ ।
पृ॒च्छामि॑ । त्वा॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । पृ॒च्छामि॑ । वा॒चः । प॒र॒मम् । विऽओ॑म ॥

सायणभाष्यम्

हेयजमान त्वात्वांपृच्छामि प्रश्नंकरोमि किं पृथिव्याः परमन्तंउत्कृष्टांकाष्ठांयत्रसर्वाप्रुथिवी समा- प्यतेतत् पृच्छामि तथात्वांअन्यत्पृच्छामि किंतदितिउच्यते—यत्रभुवनस्यभूतजातस्य नाभिः संना- होबन्धनंयत्रसर्वंसन्नद्धंभवति तमित्यर्थः किञ्च त्वात्वांवृष्णोवर्षकस्याश्वस्यव्याप्तस्यआदित्यस्य असौ- वाआदित्योवृषाश्वइतितैत्तिरीयकम् । तस्यरेतः रेतोवत्कारणं तत्किमितिपृच्छामि तथा वाचः सर्व- स्यवाग्जातस्य परमंनिरतिशयंव्योमस्थानंसर्वस्यवचसःकारणं एतत्प्रश्नचतुष्टयंपृच्छामि ॥ ३४ ॥ अथैवंपृष्टोयजमानइयंवेदिरित्यनयाप्रतिब्रूयात् इयंवेदिःपरोअन्तःपृथिव्याइतिप्रत्याहेति- सूत्रितत्वात् ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०