मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ३५

संहिता

इ॒यं वेदि॒ः परो॒ अन्त॑ः पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑ः ।
अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥

पदपाठः

इ॒यम् । वेदिः॑ । परः॑ । अन्तः॑ । पृ॒थि॒व्याः । अ॒यम् । य॒ज्ञः । भुव॑नस्य । नाभिः॑ ।
अ॒यम् । सोमः॑ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । ब्र॒ह्मा । अ॒यम् । वा॒चः । प॒र॒मम् । विऽओ॑म ॥

सायणभाष्यम्

पृथिव्याः प्रथनवत्याभूम्याः परोअन्तः परमन्तंपर्यवसानमियंवेदिः नहिवेद्यतिरिक्ताभूमिरस्ति एतावतीवैपृथिवीयावतीवेदिरितिश्रुतेः । तथा अयंयज्ञोभुवनस्य भूतजातस्यनाभिः संनहनं तत्रैव- वृष्ट्यादिसर्वफलोत्पत्तेः सर्वप्राणिनांबन्धकत्वात् अथवृष्णोवर्षकस्यादित्यस्यरेतोऽयंसोमोरसात्मकः अग्नौहुतः सोमरसः आदित्यंप्राप्यवृष्ट्यादिफलंजनयति अयंब्रह्माप्रजापतिरेव वाचोमन्त्रादिरूपायाः परमंव्योमउत्कृष्टंरक्षकंस्थानंतत्रैवोत्पत्तेस्तत्रैवपर्यवसानाच्च ॥ ३५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०