मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ३६

संहिता

स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि ।
ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुव॒ः परि॑ भवन्ति वि॒श्वतः॑ ॥

पदपाठः

स॒प्त । अ॒र्ध॒ऽग॒र्भाः । भुव॑नस्य । रेतः॑ । विष्णोः॑ । ति॒ष्ठ॒न्ति॒ । प्र॒ऽदिशा॑ । विऽध॑र्मणि ।
ते । धी॒तिऽभिः॑ । मन॑सा । ते । वि॒पः॒ऽचितः॑ । प॒रि॒ऽभुवः॑ । परि॑ । भ॒व॒न्ति॒ । वि॒श्वतः॑ ॥

सायणभाष्यम्

सप्त सर्पणस्वभावाः सप्तसंख्यावारश्मयः अर्धगर्भाः संवत्सरस्यार्धे गर्भंगर्भस्थानीयमुदकं धारय- माणाः यद्वा ब्रह्माण्डस्यार्धेमध्येन्तरिक्षे गर्भवद्वर्तमानाः भुवनस्यलोकस्यरेतः सारंवृष्टिप्रदत्वेनरेतो- भूताः तादृशारश्मयोविष्णोर्व्यापकस्यादित्यस्य विधर्मणिजगद्धारणव्यापारे प्रदिशा प्रदेशेन तिष्ठ- न्तिवर्तन्ते किञ्च तेधीतिभिः प्रज्ञाभिः मनसाजगदुपकारः कर्तव्यइतिबुद्ध्याच विश्वतः सर्वतः द्विती- यार्थेतसिः विश्वंपरिभवन्ति परितोभावयन्ति कृत्स्नंजगद्भ्याप्नुवन्तीत्यर्थः यस्मादेवंतस्मात् तेतएव- विपश्चितोबुद्धियुक्ताः परिभुवः सर्वत्रव्याप्ताश्च यद्वा सप्तार्धगर्भाः सप्त महदहंकारौपञ्चतन्मात्राणीति- मिलित्वा सप्तसंख्यानितत्त्वानि अर्धगर्भाः अविकृतिरूपाः विकाराश्र्यायाः मूलप्रकृतेःप्रकृतिविकृतेरु- दासीनस्यात्मनश्चोत्पन्नत्वादर्धांशेनप्रपञ्चाकारेणपरिणामादर्धगर्भाः पुरुषांशस्याविक्रियत्वादित्यभि- प्रायः अतएवतेषांप्रकृतिविकृतित्वं यस्मादेवंतस्माद्भुवनस्य रेतः कारणंकारणभूतानि तान्येव वि- ष्णोर्व्याप्तस्यपुरुषस्यविधर्मणिप्रदिशाप्रदेशेनतिष्ठन्ति इतरत्समानम् ॥ ३६ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१