मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ४२

संहिता

तस्या॑ः समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ।
ततः॑ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥

पदपाठः

तस्याः॑ । स॒मु॒द्राः । अधि॑ । वि । क्ष॒र॒न्ति॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिशः॑ । चत॑स्रः ।
ततः॑ । क्ष॒र॒ति॒ । अ॒क्षर॑म् । तत् । विश्व॑म् । उप॑ । जी॒व॒ति॒ ॥

सायणभाष्यम्

तस्याः उक्तायाःगोःसकाशात्समुद्राः वृष्ट्युदकसमुन्दनाधिकरणभूतामेघाअधिअधिकं प्रभूतमुद- कंविक्षरन्ति विविधंक्षरन्ति तेनोदकेनप्रदिशश्चतस्रः प्रशब्दोवीत्यर्थे विदिशश्चतस्रोदिशश्च अथवा प्रकृष्टादिशोमुख्याश्चतस्रः तत्स्थेषुताच्छब्द्यं तत्सथाः पुरुषाजीवन्ति ततः पश्चात्तदक्षरमुदकंक्षरति सस्यादिकमुत्पादयतीत्यर्थः तत्सस्यादिकंविश्वंजगदुपजीवति । अयमपियास्केन व्याख्यातः—तस्याः समुद्राअधिविक्षरन्तिवर्षन्तिमेघास्तेनजीवन्तिदिगाश्रयाणिभूतानिततः क्षरत्यक्षरमुदकंतत्सर्वाणि भूतान्युपजीव्न्तीति ॥ ४२ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२