मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ४४

संहिता

त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् ।
विश्व॒मेको॑ अ॒भि च॑ष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥

पदपाठः

त्रयः॑ । के॒शिनः॑ । ऋ॒तु॒ऽथा । वि । च॒क्ष॒ते॒ । सं॒व॒त्स॒रे । व॒प॒ते॒ । एकः॑ । ए॒षा॒म् ।
विश्व॑म् । एकः॑ । अ॒भि । च॒ष्टे॒ । शची॑भिः । ध्राजिः॑ । एक॑स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥

सायणभाष्यम्

केशस्थानीयप्रकृष्टरश्मियुक्तास्त्रयोऽग्न्यादित्यवायवः तेच ऋतुथाऋतुकालेविचक्षते विविधलक्ष- णांभूमिं पश्यन्ति तेषांपृथक्पृथक्कार्यमाह एषांमध्येएकोऽग्निः संवत्सरेतीतेसति वपते दाहेन केश- स्थानीयौषधिवनस्पत्यादिकच्छेदनेननापितत्कार्यंकरोति एकः अन्य आदित्योविश्वंसर्वंजगत् श- चीभिः स्वकीयैःप्रकाशवृष्ट्यादिकर्मभिरभिचष्टेसर्वतः पश्यति एकस्यवायोः ध्राजिर्गतिर्दद्रुशेदृश्य- तेसर्वैः नरूपं अप्रत्यक्षत्वात्स्पर्शशब्दधृतिकंपलिंगैर्गम्यतइतिहिन्यायविदोवदन्ति अयमपिमन्त्रो- यास्केनैवंव्याख्यातः—त्रयःकेशिनऋतुथाविचक्षतेकालेकालेभिविपश्यन्ति संवत्सरेवपतएकएषा- मित्यग्निःपृथिवींदहतिसर्वमेकोभिविपश्यतिकर्मभिरादित्योगतिरेकस्यद्रुश्यतेनरूपमिति ॥ ४४ ॥ वाग् दैवतेपशौचत्वारिवागितिहविषोऽनुवाक्या चत्वारिवाक्परिमितापदानियज्ञेनवाचः पद- वीयमायन्नितिसूत्रितत्वात् ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२