मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ४६

संहिता

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् ।
एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥

पदपाठः

इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हुः॒ । अथो॒ इति॑ । दि॒व्यः । सः । सु॒ऽप॒र्णः । ग॒रुत्मा॑न् ।
एक॑म् । सत् । विप्राः॑ । ब॒हु॒धा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हुः॒ ॥

सायणभाष्यम्

अमुमादित्यमैश्वर्यबिशिष्टमिन्द्रमाहुः तथा मित्रंप्रमीतेर्मरणान्त्रातारं अहरभिमानिनमेतन्नामकं- देवंआहुः वरुणंपापस्यनिवारकं रात्र्यभिमानिनंदेवमाहुः तथाग्निंअङ्गनादिगुणविशिष्टमेतन्नामकमा- हुः अथोअपिचायमेवदिव्योदिविभवः सुपर्णः सुपतनोगरुत्मान् गरणवान् पक्षवान् वैतन्नामकोयः पक्ष्यस्ति सोऽप्ययमेव कथमेकस्यनानात्वमिति उच्यते—अमुमेवादित्यमेकमेव वस्तुतःसन्तं विप्रामे- धाविनः देवतातत्त्वविदोबहुधावदन्ति तत्तत्कारणेनेन्द्राद्यात्मानंवदन्ति एकैववामहानात्मादेवता स- सूर्यइत्याचक्षते इत्युक्तत्वात् किञ्च तमेववृष्ट्यादिकारणं वैद्युताग्निंयमं नियन्तारं मातरिश्वानं अन्त- रिक्षेश्वसन्तंवायुमाहुः सूर्यस्यब्रह्मणोनन्यत्वेनसार्वात्म्यमुक्तंभवति अत्रयेकेचिदग्निः सर्वादेवताइत्या- दिश्रुतितः अयमेवाग्निरुत्तरे अपिज्योतिषीइतिमत्वाग्नेरेवसार्वात्म्यप्रतिपादकोयंमन्त्रइतिबदन्ति तत्पक्षेप्रथमोऽग्निशब्दः उद्देश्यः तमग्निमुद्दिश्येन्द्राद्यात्मकत्वं कथयन्ति अयंमन्त्रोनिरुक्तेएवंव्याख्या- तः—इममेवाग्निंमहान्तमात्मानमेकमात्मानंबहुधामेधाविनोवदन्तिइन्द्रंमित्रंवरुणमग्निंदिव्यंचगरुत्म- न्तंदिव्योदिविजोगरुत्मान् गरणवान्गुर्वात्मामहात्मेतिवेति ॥ ४६ ॥ वर्षकामेष्ट्यांतिस्रःपिंड्योहोतव्याः तत्रकृष्णंनियानमितितृतीयस्यानुवाक्या कृष्णंनियानंहरयः सुपर्णानियुत्वन्तोग्रामजितोयथानरइति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२