मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ४९

संहिता

यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि ।
यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्र॒ः सर॑स्वति॒ तमि॒ह धात॑वे कः ॥

पदपाठः

यः । ते॒ । स्तनः॑ । श॒श॒यः । यः । म॒यः॒ऽभूः । येन॑ । विश्वा॑ । पुष्य॑सि । वार्या॑णि ।
यः । र॒त्न॒ऽधाः । व॒सु॒ऽवित् । यः । सु॒ऽदत्रः॑ । सर॑स्वति । तम् । इ॒ह । धात॑वे । क॒रिति॑ कः ॥

सायणभाष्यम्

हेसरस्वति तेतवसंबन्धीयः स्तनः स्तनवच्छिशुस्थानीयानां प्राणिनामाप्यायनकारी लौकिकवै- दिकसुशब्दरूपः स्तनः शशयः शयानः तवदेहेवर्तमानः यश्चस्तनः मयोभूः रसास्वादिनां सुखस्यभा- वयिता येनस्तनेन विश्वासर्वाणिवार्याणिवरणीयानिअभिमतरूपाणिधनानिषुष्यसि भॊक्तृभ्यः यश्च- स्तनोरत्नधाः बहुविधरमणीयरत्नानां धारयिता वसुवित् वसूनांवासयितॄणां धनानां वेत्तालब्धावेद- यितावा किञ्च यःस्तनः सुदत्रः शोभनदानः सुदत्रः कल्याणदानइतिनिरुक्तम् । अत्रासकृद्यच्छब्दश्रव- णं स्तनस्यातिप्रशस्तत्वज्ञापनार्थं हेदेवि तंतादृशंसर्वप्राण्युपकारकंसूक्तमयंस्तनं इहास्मिन्कर्मणि इ- दानींवा धातवे अस्माभिर्धातुंपातुं पानाय कः कुरु ॥ ४९ ॥ अग्निमन्थने यज्ञेनयज्ञमित्येषापरिधानीया यज्ञेनयज्ञमयजन्तदेवाइतिपरिदध्यादितिसूत्रितत्वात् ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३