मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् १

संहिता

कया॑ शु॒भा सव॑यस॒ः सनी॑ळाः समा॒न्या म॒रुत॒ः सं मि॑मिक्षुः ।
कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥

पदपाठः

कया॑ । शु॒भा । सऽव॑यसः । सऽनी॑ळाः । स॒मा॒न्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ।
कया॑ । म॒ती । कुतः॑ । आऽइ॑तासः । ए॒ते । अर्च॑न्ति । शुष्म॑म् । वृष॑णः । व॒सु॒ऽया ॥

सायणभाष्यम्

इन्द्रवाक्यं सवयसः समानवयस्काः सनीलाः समानस्थानाएतेमरुतः कयाशुभकैरपि दुर्ज्ञेययाशो- भयासमान्या सर्वेषामेकरूपयामहत्ययुक्ताः यद्वा शुबित्युदकनाम उक्तरूपयाशुभा उदकेनसंमिमिक्षुः लोकंसम्यक् सिञ्चन्ति मिहिसमानार्थोमिमिक्षतिधातुः यद्वा मांयुद्धादिषु प्रवर्तमानं संमिमिक्षुः तदर्थं एतेमरुतः कयाअनिश्चेयया मती मत्या कुतोदेशादेतासः आगताः आगत्यच एतेवृषणोवर्षितारोवसू- या वसूयया सुपांसुलुगितिपूर्वसवर्णदीर्घः धनेच्छया यद्वा वसवोवास्यितारोवा तेनैवजसोयजादेशः शुष्मं बलं वृष्टिप्रदानजनितं लोकेअर्चन्ति पूजयंति जग्तिकुर्वन्ति यद्वा ममबलंवर्धयन्तीत्यर्थः मरुतो- हैनंनाजहुरितिश्रुतेः अत्रेन्द्रमरुत्संवादरूपं सर्वत्रप्राणजीवात्मपरतयापियोजनीयम् । अत्रद्वितीयया- पीन्द्रोब्रूते ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४