मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् २

संहिता

कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑न॒ः को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त ।
श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥

पदपाठः

कस्य॑ । ब्रह्मा॑णि । जु॒जु॒षुः॒ । युवा॑नः । कः । अ॒ध्व॒रे । म॒रुतः॑ । आ । व॒व॒र्त॒ ।
श्ये॒नान्ऽइ॑व । ध्रज॑तः । अ॒न्तरि॑क्षे । केन॑ । म॒हा । मन॑सा । री॒र॒मा॒म॒ ॥

सायणभाष्यम्

युवानोनित्यतरुणाः महानुभावामरुतः कस्यमहाभागस्य ब्रह्माणिपरिवृढानि हवींषिजुजुषुः सेव- न्ते कश्चमहानध्वरे स्वकीये यागेमरुतएतानाववर्त यागान्तरेभ्योतिवर्तयन्ति दुर्निग्रहत्वेदृष्टान्तमाह- अन्तरिक्षे ध्रजतोगच्छतः श्येनान् इव शंसनीयगमनानेतन्नामकान्पक्षिणइव केनतत्प्रीतिसाधनेन महा महतामनसा मननवता स्तोत्रेण रीरमाम रमेमहि अथमरुतइन्द्रेणोक्ताः तृतीययाऽनयाप्रतिब्रुव- ते ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४