मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् ३

संहिता

कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒ः सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।
सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥

पदपाठः

कुतः॑ । त्वम् । इ॒न्द्र॒ । माहि॑नः । सन् । एकः॑ । या॒सि॒ । स॒त्ऽप॒ते॒ । किम् । ते॒ । इ॒त्था ।
सम् । पृ॒च्छ॒से॒ । स॒म्ऽअ॒रा॒णः । शु॒भा॒नैः । वो॒चेः । तत् । नः॒ । ह॒रि॒ऽवः॒ । यत् । ते॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हेइन्द्रसत्पते सतांपालक त्वं माहिनोमहनीयः पूजनीयः अनुचरैरनुगन्तव्यइत्यर्थः तथाभूतः सन्न- पि एकोऽसहायः सन् कुतोयासि कुतःकारणाद्यासि यद्वा कुत्रयासि तेतव इत्थाइत्थं किंत्वं एवमेव- किंनकोऽप्यनुचरोऽस्ति किंच त्वंसमराणः अस्माभिः संगच्छमानः संपृच्छसे समीचीनंपृच्छसि हेह- रिवः हरिभ्यांतद्वन्निन्द्र तेतव अस्मे अस्मासु यद्वक्तुमिष्टतममस्तितन्नोस्मभ्यं शुभानैः शोभमानैर्वचनैः वोचेः ब्रूहि ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४