मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् ८

संहिता

वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।
अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥

पदपाठः

वधी॑म् । वृ॒त्रम् । म॒रु॒तः॒ । इ॒न्द्रि॒येण॑ । स्वेन॑ । भामे॑न । त॒वि॒षः । ब॒भू॒वान् ।
अ॒हम् । ए॒ताः । मन॑वे । वि॒श्वऽच॑न्द्राः । सु॒ऽगाः । अ॒पः । च॒क॒र॒ । वज्र॑ऽबाहुः ॥

सायणभाष्यम्

इदानीमिन्द्रआह—हेमरुतः अहमिन्द्रः इन्द्रियेणवीर्येणस्वेनभामेनस्वसमानकोपेन तविषोबल- वान्बभूवान् भूतःसंपन्नःसन्वृत्रंवधीं हतवानस्मि कस्मैतदुच्यते—मनवे मनोरथायैताः विश्वश्चन्द्राः सर्वाह्ळादकाः सुगाः सुगमनाः सर्वत्रसस्यादिषुगमनशीलाः अपोवृष्ट्युदकानि चकर चकार कृत- वानस्मि यतोहंवज्रबाहुः अनेनसहायनैरपेक्ष्यमुक्तंभवति ॥ ८ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५