मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् १०

संहिता

एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा ।
अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥

पदपाठः

एक॑स्य । चि॒त् । मे॒ । वि॒ऽभु । अ॒स्तु॒ । ओजः॑ । या । नु । द॒धृ॒ष्वान् । कृ॒णवै॑ । म॒नी॒षा ।
अ॒हम् । हि । उ॒ग्रः । म॒रु॒तः॒ । विदा॑नः । यानि॑ । च्यव॑म् । इन्द्रः॑ । इत् । ई॒शे॒ । ए॒षा॒म् ॥

सायणभाष्यम्

इदानीमिन्द्रआह मेममएकस्यचित् एकस्येव विभु सर्वत्रगमनशीलमोजोबलमस्तु यद्वा बलमेक- स्यैवास्तु किमर्थमितिचेत् उच्यते—या यानिकर्माणि मनीषामनीषयामनसईषयादधृष्वान्धर्षितवा- नहंतानिनुक्षिप्रंकृणवै कर्तुंशक्रवानि हेमरुतः अहंहिअहंखलु उग्रः उद्गूर्णबलः विदानः वेदनावान् यानियानिवसूनिच्यवं अवगच्छामि एषामहमेवेन्द्रइत् ईश्वरएवसन् ईशे ईश्वरोभवामि अथवा वि- दानोहंयानिच्यवं यान्युद्दिश्यगच्छेयं एषामीशे यतोहमिन्द्रः अतः शक्तइत्यर्थः ॥ १० ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५