अम॑न्दन्मा मरुत॒ः स्तोमो॒ अत्र॒ यन्मे॑ नर॒ः श्रुत्यं॒ ब्रह्म॑ च॒क्र ।
इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभि॑ः ॥
अम॑न्दत् । मा॒ । म॒रु॒तः॒ । स्तोमः॑ । अत्र॑ । यत् । मे॒ । न॒रः॒ । श्रुत्य॑म् । ब्रह्म॑ । च॒क्र ।
इन्द्रा॑य । वृष्णे॑ । सुऽम॑खाय । मह्य॑म् । सख्ये॑ । सखा॑यः । त॒न्वे॑ । त॒नूभिः॑ ॥
इदमपीन्द्रवाक्यं हेमरुतः मामां अत्रास्मिन्नुदकोत्पादनविषये स्तोमः स्तोत्रं अमन्दत् मादयति मोदयतेवा हेनरःसखायः यूयं मे मम यत् श्रुत्यं सर्वैः श्रोतव्यं ब्रह्मपरिव्ऋढंमेघधारणादिरूपंकर्म चक्र कृतवन्तःस्थ प्रभूतं स्तोत्रंवा अनुत्तमातइत्यादिकं इन्द्राय परमैश्वर्यगुणकायवृष्णे अभिमतवर्षि- त्रे सुमखायशोभनयागाय सख्ये युष्माभिःसमानख्यानाय तनूभिरनेकशरीरैरुपेताय मह्यं ममतन्वे मदीयशरीरपोषाय भवतु यद्वा तनूभिःअस्मच्छ्रीरभूतैः युष्माभिः कृतं मह्यमेवास्त्वित्यर्थः ॥ ११ ॥