मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् १२

संहिता

ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्य॒ः श्रव॒ एषो॒ दधा॑नाः ।
सं॒चक्ष्या॑ मरुतश्च॒न्द्रव॑र्णा॒ अच्छा॑न्त मे छ॒दया॑था च नू॒नम् ॥

पदपाठः

ए॒व । इत् । ए॒ते । प्रति॑ । मा॒ । रोच॑मानाः । अने॑द्यः । श्रवः॑ । आ । इषः॑ । दधा॑नाः ।
स॒म्ऽचक्ष्य॑ । म॒रु॒तः॒ । च॒न्द्रऽव॑र्णाः । अच्छा॑न्त । मे॒ । छ॒दया॑थ । च॒ । नू॒नम् ॥

सायणभाष्यम्

हेमरुतः एवेत् एवमेव एतेयूयंमामांप्रतिरोचमानाः मद्विषये संप्रीयमाणाः मांख्यापयन्तोवाअने- द्यः अनन्तिकस्थं श्रवः कीर्तिं इषश्च अन्नानिदधानाः आइतिचार्थे यद्वा अनेद्यइतिप्रशस्यनाम प्रशस्यं यशोस्मत्तोदधानाः अस्माभिर्वाधारयमाणाः चन्द्रवर्णाः चन्द्रमितिहिरण्यनाम सुवर्णवर्णाः यूयं मे मां संचक्ष्य सम्यक् प्रकाश्य नूनंनिश्चयं अच्छान्त यशोभिराच्छादितवन्तः छदयाथ आच्छादयथच मांप्र- तिस्र्वदारोचमानाः मय्येवकीर्तिंअन्नंचदधानाः मत्कृतैः कर्मभिः मामेवस्तुतेत्यर्थः ॥ १२ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६