मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् १३

संहिता

को न्वत्र॑ मरुतो मामहे व॒ः प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः ।
मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म् ॥

पदपाठः

कः । नु । अत्र॑ । म॒रु॒तः॒ । म॒म॒हे॒ । वः॒ । प्र । या॒त॒न॒ । सखी॑न् । अच्छ॑ । स॒खा॒यः॒ ।
मन्मा॑नि । चि॒त्राः॒ । अ॒पि॒ऽवा॒तय॑न्तः । ए॒षाम् । भू॒त॒ । नवे॑दाः । मे॒ । ऋ॒ताना॑म् ॥

सायणभाष्यम्

हेमरुतोवःयुष्मान् अत्रलोकेकोनुखलुमर्त्यःममहे पूजयति हेसखायः सर्वस्यसखिवत्प्रियकारिणः सन्तः सखीन्हविःप्रदानेन सखिभूतान् यजमानान् अच्छ आभिमुख्येनप्राप्तुं प्रयातन गच्छत हेचित्राः चायनीयाः यूयं मन्मानिमननीयानि धनानि अपि वातयन्तः संपूर्णं प्रापयन्तोभूतभवत किञ्च मे मदीयानां एषां ऋतानां अवितथानांधनानांनवेदाः भूत ज्ञातारोभवत ॥ १३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६