मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् १४

संहिता

आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा ।
ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥

पदपाठः

आ । यत् । दु॒व॒स्यात् । दु॒वसे॑ । न । का॒रुः । अ॒स्मान् । च॒क्रे । मा॒न्यस्य॑ । मे॒धा ।
ओ इति॑ । सु । व॒र्त्त॒ । म॒रु॒तः॒ । विप्र॑म् । अच्छ॑ । इ॒मा । ब्रह्मा॑णि । ज॒रि॒ता । वः॒ । अ॒र्च॒त् ॥

सायणभाष्यम्

हेमरुतः यत् दुवस्यात् युष्मत्परिचरणार्हात् स्तोत्रात् तेनस्तोत्रेणदुवसे परिचरणायपर्याप्ता कारुः कर्त्रीस्तुतिकुशलामान्यस्यमाननीयस्यविदुषोमेधाबुद्धिः अस्मान् नेतिसंप्रत्यर्थे इदानींतनानाचक्रे आ- भिमुख्येनकरोति प्राप्नोतीत्यर्थः यद्वा षष्ठीबहुवचनं इदंसूक्तंदुव्स्यानां परिचरणार्हाणां दुव्सेपरिचर- णायेत्यर्थः अतोहेमरुतोयूयंविप्रंमेधाविनंयजमानंमामगस्त्यमच्छ आभिमुख्येनप्राप्तुं सु सुष्ठु ओवर्त ओइतिनिपातद्वयसमुदायरूपएकोनिपातः आङित्याभिमुख्ये उकारोवधारणे आवर्तध्वमेव किमर्थ- मेवमिति उच्यते—इमाब्रह्माणि इमानिपरिवृढानिकर्माण्युद्दिश्य जरितागरिता स्तोतावोयुष्मान् अ- र्चत् अर्चति यस्मादेवंतस्मादावर्तध्वमित्यर्थः ॥ १४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६