मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् १५

संहिता

ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।
आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेमरुतः एषः स्तोमः इदानींक्रियमाणप्रकारंस्तोत्रं वोयुष्मदर्थंयुष्मत्प्रीणनायभवत्वित्यर्थः तथेयं- गीः स्तुतिरूपावागपिवोयुष्मदर्थाय यस्मादेवंतस्मान्मांदार्यस्य स्तुतिविशेषैः मन्दयितुः स्तुतिभिर्म- दस्यप्रेरयितुर्वा मान्यस्यवरप्रदानादिनामाननीयस्यकारोः स्तोतुः इषाइच्छया आयासीष्ट आगच्छत किमर्थं तन्वेशरीरायतत्पोषायेत्यर्थः वयां वयमपि इषं अन्नंवृजनं बलंजीरदानुं जयशीलदानं एतत्सर्वं विद्याम युष्मास्वागतेषुयज्ञसंपूर्त्येष्ट्यादिद्वारालभेमहि ॥ १५ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरविदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येण- विरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेतृतीयोऽध्यायः समाप्तः ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६