मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् २

संहिता

नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः ।
नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥

पदपाठः

नित्य॑म् । न । सू॒नुम् । मधु॑ । बिभ्र॑तः । उप॑ । क्रीळ॑न्ति । क्री॒ळाः । वि॒दथे॑षु । घृष्व॑यः ।
नक्ष॑न्ति । रु॒द्राः । अव॑सा । न॒म॒स्विन॑म् । न । म॒र्ध॒न्ति॒ । स्वऽत॑वसः । ह॒विः॒ऽकृत॑म् ॥

सायणभाष्यम्

नित्यंनसूनुं औरसंप्रियंपुत्रमिव मधुमधुरंहविर्बिभ्रतः धारयंतोमरुतः विदथेषुयागेषु घृष्वयः रक्षः प्रभृतीनांघर्षकाःसन्तः क्रीळाः क्रीडनशीलाः उपउपेत्यक्रीळन्ति विहरन्ति किञ्च रुद्राः रुद्रपुत्राः मरु- तोपिरुद्राउच्यन्ते जन्यजनकयोरभेदात् मरुतांरुद्रपुत्रत्वंपुराणेषु तपसातुष्टौपार्वतीपरमेश्वरौ मरुतः पुत्रत्वेनस्वीचक्रतुरितिप्रसिद्धम् नमस्विनंनमस्कारोपलक्षितस्तोत्रोपेतं हविष्कृतं हविषःकर्तारं प्रदा- तारंयजमानं अवसारक्षणेनतर्पणेनवानिमित्तभूतेननक्षन्तिव्याप्नुवन्ति किञ्च स्वतवसः स्वायत्तबला- मरुतः यजमानंनमर्धन्ति नमङ्ग्रामयन्ति नक्लेशयन्तीत्यर्थः ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः