मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ३

संहिता

यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ ।
उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुवः॑ ॥

पदपाठः

यस्मै॑ । ऊमा॑सः । अ॒मृताः॑ । अरा॑सत । रा॒यः । पोष॑म् । च॒ । ह॒विषा॑ । द॒दा॒शुषे॑ ।
उ॒क्षन्ति॑ । अ॒स्मै॒ । म॒रुतः॑ । हि॒ताःऽइ॑व । पु॒रु । रजां॑सि । पय॑सा । म॒यः॒ऽभुवः॑ ॥

सायणभाष्यम्

यस्मैयजमानायहविषाददाशुषे सोमादिहविर्दत्तवतेहविषाप्रीतः ऊमासः अवितारः अमृताःअम- रणधर्माणोमरुतोरायस्पोषंधनस्यपुष्टिं चशब्दात् पश्वादिपुष्टिंअरासत प्रायच्छन् रासतिर्दानार्थः अस्मैयजमानायहिताइवहिताचरणाः सखायइवसन्तोमयोभुवः सुखस्यभावयितारोमरुतोरजांसि- लोकान् पुरुप्रभूतंयथाभवतितथा पयसाउदकेनसस्याद्युत्पत्त्यर्थंउक्षन्ति सिञ्चन्ति ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः