मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ४

संहिता

आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑स॒ः स्वय॑तासो अध्रजन् ।
भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ याम॒ः प्रय॑तास्वृ॒ष्टिषु॑ ॥

पदपाठः

आ । ये । रजां॑सि । तवि॑षीभिः । अव्य॑त । प्र । वः॒ । एवा॑सः । स्वऽय॑तासः । अ॒ध्र॒ज॒न् ।
भय॑न्ते । विश्वा॑ । भुव॑नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः॑ । प्रऽय॑तासु । ऋ॒ष्टिषु॑ ॥

सायणभाष्यम्

हेमरुतःयुष्मत्संबन्धिनः येएवासः एवाअश्वविशेषाः तविषीभिः स्वकीयैर्बलैः वृष्टिप्रदानादिरूपैः रजांसिलोकान् आअव्यत सर्वतः आवृण्वन्ति ते वोयुष्माकं एवासोश्वाः स्वयतासः स्वयमेवसारथि- नाविनैवयुक्ताः प्राध्रजन् प्रकर्षेणागच्छन्तिव्याप्नुवन्ति किञ्च युष्मदागमनात् विश्वाभुवनानिसर्वाणि- भूतजातानि विश्वाहर्म्यासर्वाणिहर्म्याणिचभयन्तेबिभ्यतिपतनात् यस्मादेवं तस्माद्वोयामः चित्रश्चा- यनीयः आश्चर्यभूतइत्यर्थः भीतेःकारणमाह—ऋष्टिषुयुद्धस्थासुहेतिषु प्रयतासुप्रकर्षेणोद्यतासुसतीषु अथवानीतौदृष्टान्तः—ऋष्टिषुप्रयतासुसतीषु लोप्तोपमेयं आयुधेषूद्यतेषुयथाजनाबिभ्यतितद्वत् युष्म- दागमनात् बिभ्यतीत्यर्थः ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः