मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ५

संहिता

यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः ।
विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥

पदपाठः

यत् । त्वे॒षऽया॑माः । न॒दय॑न्त । पर्व॑तान् । दि॒वः । वा॒ । पृ॒ष्ठम् । नर्याः॑ । अचु॑च्यवुः ।
विश्वः॑ । वः॒ । अज्म॑न् । भ॒य॒ते॒ । वन॒स्पतिः॑ । र॒थि॒यन्ती॑ऽइव । प्र । जि॒ही॒ते॒ । ओष॑धिः ॥

सायणभाष्यम्

मरुतः त्वेषयामाः प्रदीप्तगमनाः यत् यदापर्वतान् पर्ववतोगिरेर्गह्वराणि पूरकान् मेघान्वा नद- यन्तनादयन्तिवा अथवा दिवोविद्योतनात्मकस्यान्तरिक्षस्यपृष्ठं उपरिभागंनर्यानरेभ्योहिताः अचु- च्यवुः गच्छन्ति तथावोयुष्मत्संबन्धिनि अज्मन् गमनेनिमित्तभूतेसति विश्वोवनस्पतिः वनस्यपाल- यितावृक्षसमूहोभय्तेबिभेति तथौषधिः प्रियङुव्रीह्यादिः प्रजिहीते प्रकर्षेण गच्छतिस्व्स्थानात् इत- स्ततश्चलतीत्यर्थः तत्रदृष्टन्तः—रथीयन्तीव रथमात्मनः इच्छ्न्तीस्त्रीरथारूढेत्यर्थः तादृशीस्त्रीव सा- यथाचलतितद्वत् ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः