मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ६

संहिता

यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन ।
यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥

पदपाठः

यू॒यम् । नः॒ । उ॒ग्राः॒ । म॒रु॒तः॒ । सु॒ऽचे॒तुना॑ । अरि॑ष्टऽग्रामाः । सु॒ऽम॒तिम् । पि॒प॒र्त॒न॒ ।
यत्र॑ । वः॒ । दि॒द्युत् । रद॑ति । क्रिविः॑ऽदती । रि॒णाति॑ । प॒श्वः । सुधि॑ताऽइव । ब॒र्हणा॑ ॥

सायणभाष्यम्

हेउग्राः उद्गूर्णबलामरुतोयूयं सुचेतुनाशोभनचेतसा अरिष्टग्रामाः अहिंसितसंघाः सन्तोनोस्माकं सुमतिंशोभनांबुद्धिं पिपर्तनपूरयत कस्मिन् कालेइतितदुच्यते—यत्रयस्मिन्कालेवोयुष्मत्सबन्धिनी- क्रिविर्दतीविक्षेपणशीलद्न्तीदिद्युत् हेतिः रदति विलिखति मेघसंस्त्यायंपश्वःपशूंश्च रिणातिरेषति- हिनस्ति वायौवातिसतिपशवः शीर्यन्तइतिप्रसिद्धम् हिंसायांदृष्टान्तः—सुधिताइव सुहितासुष्ठुप्रेरि- ताबर्हणा हतिस्तत्साधनाहेतिर्वायथारिणातितद्वत् ॥ ६ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः