मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ७

संहिता

प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः ।
अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥

पदपाठः

प्र । स्क॒म्भऽदे॑ष्णाः । अ॒न॒व॒भ्रऽरा॑धसः । अ॒ला॒तृ॒णासः॑ । वि॒दथे॑षु । सुऽस्तु॑ताः ।
अर्च॑न्ति । अ॒र्कम् । म॒दि॒रस्य॑ । पी॒तये॑ । वि॒दुः । वी॒रस्य॑ । प्र॒थ॒मानि॑ । पौंस्या॑ ॥

सायणभाष्यम्

प्रस्कंभदेष्णाः प्रकर्षेणस्तंभितदानाः अविरतदानाइत्यर्थः अनवभ्रराधसः अभ्रष्टहविरादिधनाः राधइतिधननाम अलातृणासः नकारस्यस्थानेलकारः अनातृणासः आतर्दनरहिताः अथवा अलं पर्या- प्तं आतर्दनाः शत्रूणां यद्वा अलमत्यर्थं दातारः फलानां सुष्टुताः ऋत्विग्भिः सम्यक् स्तुताः एवंरूपा- मरुतः विदथेषुयागेषुअर्कमर्चनीयमिन्द्रं स्वसखीभूतं अर्चन्ति पूजयन्ति स्तुत्यादिनासंभावयन्तीत्यर्थः किमर्थं मदिरस्यमादनसाधनस्यसोमस्यपीतये पानाय तस्येन्द्रस्यमहत्त्वं कथं जानन्तीत्यतआह—हे- मरुतः वीरस्यविविधंशत्रूणामीरकस्येन्द्रस्य प्रथमानिप्रतमानिमुख्यानिपौंस्यापुंस्त्वानि वृत्रवधा- दिरूपाणिविदुर्जानन्ति ॥ ७ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः