मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ८

संहिता

श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त ।
जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥

पदपाठः

श॒तभु॑जिऽभिः । तम् । अ॒भिऽह्रु॑तेः । अ॒घात् । पूः॒ऽभिः । र॒क्ष॒त॒ । म॒रु॒तः॒ । यम् । आव॑त ।
जन॑म् । यम् । उ॒ग्राः॒ । त॒व॒सः॒ । वि॒ऽर॒प्शि॒नः॒ । पा॒थन॑ । शंसा॑त् । तन॑यस्य । पु॒ष्टिषु॑ ॥

सायणभाष्यम्

हेमरुतः यूयंशतभुजिभिः शतमित्यपरिमितनाम असंख्यातभोगवद्भिःपूर्भिःपालनैःजेतव्यैः शत्रू- णांनगरैर्वा तं रक्षतपालयत तमित्युक्तंकमित्याह—यंजनंअभिह्रुतेः अभिभवकारणात् कुटिलस्वभा- वादघात् पापात् आवतअरक्षत किञ्च हेउग्राः उद्गूर्णतेजसः हेतवसः बलवन्तोवेगवन्तोवा हेविर- प्शिनः महन्नामैतत् महान्तः यद्वा रपणीयाः शब्दारपाः तेषांयेविरप्शिनः विविधारप्शिनः स्तोता- रोयेषां तेयथोक्ताः हेतादृशायूयं यंचजनंपाथनपाथरक्षथ कस्मान्निमित्तादितिउच्यते तनयस्यउपल- क्षणमेतत् पुत्रादीनांपुष्टिपोषेषुनिमित्तभूतेषुशंसादभिशंसनात् यमेवंकुरुथ तंरक्षथेति शेषः पापक्ष- याद्यनिष्टपरिहारेणपुत्रादिपोषरूपेष्टप्राप्त्याचरक्षथेत्यर्थः ॥ ८ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः