मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् १०

संहिता

भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जयः॑ ।
अंसे॒ष्वेता॑ः प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥

पदपाठः

भूरी॑णि । भ॒द्रा । नर्ये॑षु । बा॒हुषु॑ । वक्षः॑ऽसु । रु॒क्माः । र॒भ॒सासः॑ । अ॒ञ्जयः॑ ।
अंसे॑षु । एताः॑ । प॒विषु॑ । क्षु॒राः । अधि॑ । वयः॑ । न । प॒क्षान् । वि । अनु॑ । श्रियः॑ । धि॒रे॒ ॥

सायणभाष्यम्

तेमरुतः नर्येषुनरेभ्योहितेषुबाहुषुभुजेषु भूरीणिप्रभूतानि भद्राभद्राणि कल्याणानिधनानि स्तो- तृभ्योदातुंधिरे दधिरेधारयन्ति तथावक्षःसु उरःस्थलेषुरुक्माः सुवर्णरत्नादिनिर्मितान्याभरणानि धारयन्ति कीदृशानि रभसासः राभस्ययुक्तानिकान्तिमन्तिवाअंसेषुभुजमूलेषुएताः शुक्लवर्णाः मालाः पविषुवज्रसदृशेषुआयुधेषुक्षुराः क्षुरधाराः अधिसप्तम्यर्थानुवादी एवमेतेमरुतः सर्वांगेषु- श्रियोलक्ष्मीः अनुअनुक्रमेणविधिरे विविधंधारयन्ति तत्रदृष्टान्तः—वयोनपक्षान् पक्षिणः पक्षानिव ॥ १० ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः