मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ११

संहिता

म॒हान्तो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभि॑ः ।
म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभि॒ः सम्मि॑श्ला॒ इन्द्रे॑ म॒रुतः॑ परि॒ष्टुभः॑ ॥

पदपाठः

म॒हान्तः॑ । म॒ह्ना । वि॒ऽभ्वः॑ । विऽभू॑तयः । दू॒रे॒ऽदृशः॑ । ये । दि॒व्याःऽइ॑व । स्तृऽभिः॑ ।
म॒न्द्राः । सु॒ऽजि॒ह्वाः । स्वरि॑तारः । आ॒सऽभिः॑ । सम्ऽमि॑श्लाः । इन्द्रे॑ । म॒रुतः॑ । प॒रि॒ऽस्तुभः॑ ॥

सायणभाष्यम्

येमरुतोमहान्तः माहात्म्योपेताः केन मह्नामत्त्वेनप्रभावातिशयेन तथाविभ्वंविभवः व्याप्ताः तथाविभूतयः विविधैश्वर्यवन्तः दूरेदृशः दूरेदृश्यमानाः प्रकाशमानाः दूरदर्शनेदृष्टान्तः—दिव्याः स्तृभिरिव स्तृभिरितिनक्षत्रनाम ऋक्षाःस्तृभिरितिनक्षत्राणामितिनिरुक्तत्वात् दिविभवाः देवा- स्तृभिः स्वपुष्पकभूतैस्तेजःपुंजैर्नक्षत्रैर्यथादूरेद्रुश्यमानाभवन्तितद्वत् किञ्च मन्द्राः मादनाः सुजिह्वाः शोभनजिह्वाः आसभिरास्यैः स्वरितारः शब्दयितारः प्रियवचनाइत्यर्थः अतएवसुजिह्वाइत्यु- क्तं किञ्च इन्द्रेसंमिश्लाः सम्यक् मिश्रयितारः इन्द्रसहायिनइत्यर्थः मरुतोहैनंनाजहुरितिश्रुतेः । तथापरिष्टुभः परिस्तोभयुक्ताः स्तुतिभिर्युक्ताः एवंमहाभागायेमरुतः सन्तितेस्मद्यज्ञमागच्छन्ती- तिशेषः ॥ ११ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः