मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् १२

संहिता

तद्व॑ः सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तम् ।
इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वम् ॥

पदपाठः

तत् । वः॒ । सु॒ऽजा॒ताः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । वः॒ । दा॒त्रम् । अदि॑तेःऽइव । व्र॒तम् ।
इन्द्रः॑ । च॒न । त्यज॑सा । वि । ह्रु॒णा॒ति॒ । तत् । जना॑य । यस्मै॑ । सु॒ऽकृते॑ । अरा॑ध्वम् ॥

सायणभाष्यम्

हेसुजाताः शोभनजननाः हेमरुतः वोयुष्मदीयं महित्वनंमहत्त्वंतत् तादृक् खलु तदित्युक्तं किमित्याह—वोयुष्माकं दात्रंदानंवृष्ट्यादिरूपंदूर्घं अत्यायतंअविच्छिन्नं प्रकृष्टोपकारीत्यर्थः दीर्घत्वेदृष्टान्तः—अदितेर्व्रतमिव अदीनायादेवमातुर्भूम्यावा व्रतमितिकर्मनाम तद्यथादीर्घं- अतिविस्तृतंतद्वत् अदितिर्द्यौरदितिरन्तरिक्षमित्यादिमन्त्रवर्णात् । किञ्च हेमरुतोयूयंयस्मै- सुकृते शोभनयागादिकर्त्रेयजमानाययदभिमतंधनमराध्वं ददध्वं तदिन्द्रश्च इन्द्रोपित्यजसा- त्यागेननविहृणाति नविह्वरति कौटिल्यंनकरोति चनेत्ययंयद्यपिनिपातद्वयसमुदायरूपएको- निपातितः तथाप्यवयवविभागेनचशब्दःसमुच्चये नशब्दोनिषेधेधिगन्तव्यः युष्मद्धनादित्या- गमिन्द्रत्यागोपिनातिक्रामतीत्यर्थः यद्वा यस्मैतद्धनमराध्वंतमिन्द्रोपिनकुटलयतिननिषेधयति किंत्वनुमोदयतीत्यर्थः ॥ १२ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः