मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् १३

संहिता

तद्वो॑ जामि॒त्वं म॑रुत॒ः परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त ।
अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥

पदपाठः

तत् । वः॒ । जा॒मि॒ऽत्वम् । म॒रु॒तः॒ । परे॑ । यु॒गे । पु॒रु । यत् । शंस॑म् । अ॒मृ॒ता॒सः॒ । आव॑त ।
अ॒या । धि॒या । मन॑वे । श्रु॒ष्टिम् । आव्य॑ । सा॒कम् । नरः॑ । दं॒सनैः॑ । आ । चि॒कि॒त्रि॒रे॒ ॥

सायणभाष्यम्

हेमरुतः यत् वोजामित्वंबंधुत्वं अस्मद्विषयप्रेमाधिक्यंतत् खलुप्रसिद्धमित्यर्थः कियत् पर्यन्त- मितितदुच्यते—परेयुगे युगशब्दः कालोपलक्षकः उत्कृष्टेमहतिकालेतीतेपिवर्ततइतिशेषः तत्कथ- मधिगतमित्यतआह अमृतासोऽमरणधर्माणोहेमरुतोयूयं यद्यस्माच्छंसमस्माभिः क्रियमाणांस्तु- तिंपुरुप्रभूतंयथाभवतितथाआवतरक्षथ तस्माद्युष्मत्क्रुतंजामित्वमविनाशीत्यर्थः किंच यूयं अया- धिया अनया अनुग्रहात्मिकयाबुद्भ्यामनवेमनुष्यायस्तोत्रेयष्ट्रेवा अस्मदादयेश्रुष्टिमाव्यकीर्तिंस्तुतिं- वारक्षित्वासाकंसंभूयनरः नेतारः सन्तोदंसनैः कर्मभिरित्थंभूताआचिकित्रिरे सर्वतोजानीथ ॥ १३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः