मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् १४

संहिता

येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः ।
आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ॥

पदपाठः

येन॑ । दी॒र्घम् । म॒रु॒तः॒ । शू॒शवा॑म । यु॒ष्माके॑न । परी॑णसा । तु॒रा॒सः॒ ।
आ । यत् । त॒तन॑न् । वृ॒जने॑ । जना॑सः । ए॒भिः । य॒ज्ञेभिः॑ । तत् । अ॒भि । इष्टि॑म् । अ॒श्या॒म् ॥

सायणभाष्यम्

हेतुरासः वेगवन्तोमरुतोः युष्माकेनयुष्मत्संबन्धिनायेनपरीणसायद्यप्येतद्वहुनामसुपठितम् तथापियद्बहुतन्महदपिभवतीत्यत्रमहदित्यर्थेग्रुह्यते महातायुष्मदभिगमनेनैषणेनवादीर्घमायतंस- त्रादिरूपंकर्मशूशवाम प्रवर्धयामः किञ्च यत् येनचाभिगमनेनैषणेनवाजनासोजनाः अस्मदीयाः वृजनेसङ्ग्रामेआततनन् सर्वतोविस्तारयन्ति स्वसामर्थ्यैः सङ्मामंजयन्तीत्यर्थः तदिष्टिमेषणंगमनं एभिर्यज्ञेभिः इदानींक्रियमाणैः स्तोत्रादिरूपैः पूजनैः अभिआभिमुख्येनअश्याम् व्याप्नुयाम् ॥ १४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः