मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् १

संहिता

स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः ।
स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑ः ॥

पदपाठः

स॒हस्र॑म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः॑ । नः॒ । स॒हस्र॑म् । इषः॑ । ह॒रि॒ऽवः॒ । गू॒र्तऽत॑माः ।
स॒हस्र॑म् । रायः॑ । मा॒द॒यध्यै॑ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । य॒न्तु॒ । वाजाः॑ ॥

सायणभाष्यम्

हेइन्द्र तेतवऊतयोरक्षाप्रकाराः सहस्रमपरिमिताइत्यर्थः नोस्मभ्यंउपयन्त्वितिसर्वत्रयोज्यं तथा हेहरिवः हरीइन्द्रस्याश्वौ ताभ्यां तद्वन्निन्द्र गूर्ततमाः अत्यन्तंगूर्णानि इषः इषणीयाः अन्नानिसहस्रं- बहूनित्वदीयानि तथासहस्रंरायः अपरिमितानिधनानिमणिमुक्तादीनिमादयध्यै अस्मान् मादयितुं- यानिसन्तितान्यस्मानुपयन्तु तथासहस्रिणोवाजाः गमनवन्तश्चतुष्पाद्रूपाः पशवोपिनोस्मानुपयन्तु समीपंप्राप्नुवन्तु ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः