मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् २

संहिता

आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः ।
अध॒ यदे॑षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥

पदपाठः

आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः ।
अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥

सायणभाष्यम्

तेमरुतः अवोभीरक्षणैः सहितानोस्मानच्छ आभिमुख्येनायान्तु आगच्छन्तु सुमायाः मायेतिप्र- ज्ञानाम शोभनप्रज्ञाः एवंमरुतोज्येष्ठेभिः बृहद्दिवैः वा ज्येष्ठैः प्रशस्यतमैर्मणिमुक्तादिधनैश्चसहिता- आयान्तु वाशब्दःसमुच्चये आगमने कथमेषांसामर्थ्यमित्यतआह—अधअथैषांमरुतांयद्यस्मान्नियुतः एतन्नामकाः परमाः उत्कृष्टाः अश्वाः समुद्रस्यचित् चिच्छब्दोप्यर्थे समुद्रस्यापिपारेपरस्मिन् तीरे धनयन्त धनधारणंबहनंकुर्वन्ति तस्माद्रक्षणैर्धेनैश्चायान्त्वित्यर्थः ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः