मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् ४

संहिता

परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।
न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥

पदपाठः

परा॑ । शु॒भ्राः । अ॒यासः॑ । य॒व्या । सा॒धा॒र॒ण्याऽइ॑व । म॒रुतः॑ । मि॒मि॒क्षुः॒ ।
न । रो॒द॒सी इति॑ । अप॑ । नु॒द॒न्त॒ । घो॒राः । जु॒षन्त॑ । वृध॑म् । स॒ख्याय॑ । दे॒वाः ॥

सायणभाष्यम्

शुभ्राःशोभनालङ्काराअयासोभिगन्तारोमरुतः यव्यामिश्रणशीलयाविद्युतापरामिमिक्षुः प्रक- र्षेणसिञ्चन्तिउदकसंस्त्यायं साधारण्येव यथलोकेसधारण्यास्त्रियासङ्गतायुवानोरेतोमुञ्च न्तितद्वत् एवंकुर्वन्तोघोराःअतिवृष्टिप्रदानेनभयङ्कराः तेरोदसीद्यावाप्रुथिव्यौनापनुदन्त अपनोदनं वर्षणरूपं तिरस्कारंनकुर्वन्ति द्यावापृथिवीवचनोरोदसीशब्दःसर्वत्राद्युदात्तः अत्रतुव्यत्ययेनान्तोदात्तत्वमिति- द्रष्टव्यं यद्वा रोदसीशब्देनरोदनस्वभावोरुद्रः तस्यस्त्रीरोद्सीतिकेचिदाहुः अपरेतुमरुतांस्त्रियोरोदसी- तिनामधेयमित्याहुः अयमेवपक्षोयुक्तः उत्तरत्रैवंव्यवहारात् तत्पक्षेरोदसीरोदस्यांङीषन्तात् सप्तम्या- ईकारोलुग्वा ईदूतौचसप्तम्यर्थेइतिप्रगृह्यसंज्ञा तस्यां प्रियंधनंनमुञ्चन्ति किन्तु देवाःमोदयितारोमा- दयितारोवामरुतः सख्यायवृधंवृद्धिंजुषन्तसेवन्ते द्यावापृथिवीपक्षे सख्यायजगतांसखिभावायतयो- र्वृद्धिंकुर्वन्तीत्यर्थः ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः