मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् ५

संहिता

जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणा॑ः ।
आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥

पदपाठः

जोष॑त् । यत् । ई॒म् । अ॒सु॒र्या॑ । स॒चध्यै॑ । विसि॑तऽस्तुका । रो॒द॒सी । नृ॒ऽमनाः॑ ।
आ । सू॒र्याऽइ॑व । वि॒ध॒तः । रथ॑म् । गा॒त् । त्वे॒षऽप्र॑तीका । नभ॑सः । न । इ॒त्या ॥

सायणभाष्यम्

रोदसीमरुत्पत्नी विद्युद्वा एतन्नामकेयमपि ईमेनंमरुत्सङ्घं जोषत् सेवते जुषेर्लेट्यडागमः किमर्थं सचध्यैसङ्गमनार्थं कीदृशीसा असुर्या असुराःक्षेप्तारोमरुतः तेषांस्वभूताविषितस्तुका विशिष्टकेशसं- घा विप्रकीर्णकेशसंघावा संभोगवशेन तथानृमणाः नृषुनेतृषुमरुत्सुमननवती मनुष्येषुवावृष्टिप्रदा- नमनोयुक्ता त्वेषप्रतीकादीप्तोपक्रमादीप्तावयवा ईदृशीदेवीविधतः परिचरतोमरुत्संघस्यरथमागात् आगच्छतिव्याप्नोति यागदेशंगन्तुंरथमारुह्यवायज्ञमागच्छति केव विधतःसूर्यस्यरथंत्वेषप्रतीकासूर्य- पत्नीव यद्वा सूर्यस्यदुहिताश्विनोरथमिव सायथारोहतितद्वत् आगमनेदृष्टान्तः—नभसइत्यान अन्त- रिक्षादित्ययोः साधरणोयंनभःशब्दः नभइतिषट्साधारणानीत्युक्तत्वादत्रादित्यवचनः तस्यगतिरिव सायथाशीघ्रातद्वत् ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः