मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् ६

संहिता

आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् ।
अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥

पदपाठः

आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा॑नः । शु॒भे । निऽमि॑श्लाम् । वि॒दथे॑षु । प॒ज्राम् ।
अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा॑न् । गाय॑त् । गा॒थम् । सु॒तऽसो॑मः । दु॒व॒स्यन् ॥

सायणभाष्यम्

युवानोमिश्रयन्तः नित्यतरुणावामरुतः युवतिं मिश्रयन्तींनित्यतरुणींवाविद्युद्रूपांरोदस्यां स्त्रिय- मास्थापयन्त आस्थापयन्ति देवतात्वेनरथेधारयन्ति कीदृशींतां निमिश्लांनियमेनमिश्रयन्तींपज्रांप- ज्रोबलंतद्वतींशुभोभतेदीप्यतइतिशुबुदकंवृष्ट्युदकार्थंशुभेरथइतिवायोज्यं किंनिमित्तं विदथेषुयागे- षुनिमित्तभूतेषु कदायत् यदाहेमरुतोवोयुष्मान् अर्कः मत्वर्थोलुप्यते अर्चनसाधनमन्त्रोपेतः स्तोतावा हविष्मान्प्रदेयाज्यादिहविर्युक्तः सुतसोमः होमायाभिषुतः सोमोयंयजमानोदुवस्यन्परिचन् गाथंगा- तव्यंस्तोत्रंगायत् गायति तदेत्यर्थः ॥ ६ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः