मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् ७

संहिता

प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ ।
सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥

पदपाठः

प्र । तम् । वि॒व॒क्मि॒ । वक्म्यः॑ । यः । ए॒षा॒म् । म॒रुता॑म् । म॒हि॒मा । स॒त्यः । अस्ति॑ ।
सचा॑ । यत् । ई॒म् । वृष॑ऽमनाः । अ॒ह॒म्ऽयुः । स्थि॒रा । चि॒त् । जनीः॑ । वह॑ते । सु॒ऽभा॒गाः ॥

सायणभाष्यम्

एषांमरुतांयोयोमहिमामहत्त्वातिशयः वक्म्यः सर्वैः स्तुत्यःअबाध्यःअस्ति तंप्रविवक्मि प्रवच्मि- वर्णयामि कथमेषांमहिमाप्राप्तइतिउच्यते—यद्यस्मात् ईंएतेषांसबन्धिनीरोदसी वृषमणावृष्ट्यादि- वर्षणमनस्काअहंयुःअहंकारवतीजगदुपकारकर्त्रीनमत्तः काचिदस्तीत्यहंकारः स्थिराचित् चिदितिपू- जायां अत्यन्तमविनश्वराईदृशीदेवीसुभगाः शोभनभाग्योपेताः जनीः जननशीलाःप्रजाः वृष्ट्युत्प- त्तीर्वावहतेधारयति वृष्टौसत्यांसर्वेप्राणिनउत्पद्यन्ते यस्मादेवंतस्मान्महिमास्ति तंमहिमानंस्तौमीत्य- र्थः ॥ ७ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः