मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् ११

संहिता

ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।
आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

एषइत्येकादशीव्याख्याता ॥ ११ ॥

यज्ञायज्ञेतिदशर्चंचतुर्थंसूक्तंआगस्त्यंमारुतं अन्त्यास्तिस्रस्त्रिष्टुभः शिष्टाःसप्त त्रिष्टुवन्तपरिभाषया- जगत्यः यज्ञायज्ञादशत्रिष्टुवन्तमित्यनुक्रान्तं विशेषविनियोगोलैङ्गिकः ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः