मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् ३

संहिता

सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते ।
ऐषा॒मंसे॑षु र॒म्भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥

पदपाठः

सोमा॑सः । न । ये । सु॒ताः । तृ॒प्तऽअं॑शवः । हृ॒त्ऽसु । पी॒तासः॑ । दु॒वसः॑ । न । आस॑ते ।
आ । ए॒षा॒म् । अंसे॑षु । र॒म्भिणी॑ऽइव । र॒र॒भे॒ । हस्ते॑षु । खा॒दिः । च॒ । कृ॒तिः । च॒ । सम् । द॒धे॒ ॥

सायणभाष्यम्

येमरुतःसुताः अभिषुताः तृप्तांशवः तर्पितावयवाः सोमासोन सोमाइव यथावल्लीरूपाः सोमाः अभिषवात्पूर्वं आप्यायनेनतृप्तावयवाः सन्तः पश्चात्सुताः अभिषुताः रसभूताः पीतासः पीताः स- न्तोहृत्सुपातॄणां हृदयेषुदुवसोनासते परिचरन्तइवासते तद्वत् येमरुतः यज्ञेआहूतास्तृप्तावयवाभवन्ति ध्यायमानाःसन्तोहृत्सुहृदयेषुदुवसोन परिचरन्तइवासते यद्वा प्राणादिरूपेणशरीरे स्थितादुवसः परिचरन्तइवगमनादिचेष्टाःकुर्वन्तः आसते एषामंसेषुरम्भिणीव युवतमांसावलम्बिनीयोषिदिवारा- रभे आश्लिष्यति अवलम्बते सामर्थ्यात् शक्त्याख्यायुधविशेषोभुजलक्ष्मीर्वा किञ्च हस्तेषुखादिः हस्त- त्राणकश्चकृतिः कर्तनीचखड्गलतावृष्टिश्चसन्दधे सन्धीयते सम्यक् धृताभवति परस्परसमुच्चयार्थाश्च- काराः येमरुतउक्तरूपास्तेआविर्भवन्तीत्यर्थः ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः