मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् ५

संहिता

को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे॑व जि॒ह्वया॑ ।
ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा॑ अह॒न्यो॒३॒॑ नैत॑शः ॥

पदपाठः

कः । वः॒ । अ॒न्तः । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽवि॒द्यु॒तः॒ । रेज॑ति । त्मना॑ । हन्वा॑ऽइव । जि॒ह्वया॑ ।
ध॒न्व॒ऽच्युतः॑ । इ॒षाम् । न । याम॑नि । पु॒रु॒ऽप्रैषाः॑ । अ॒ह॒न्यः॑ । न । एत॑शः ॥

सायणभाष्यम्

हेमरुतः हेरुष्टिविद्युतः मेघभेदेनायुधविशेषेण विद्योतमानाः वोयुष्माकमन्तः युष्मासुमध्ये स्थि- त्वाकः पुमान् रेजतिचालयति प्रेरयति तर्हिकथंचालनमितिउच्यते त्मनाआत्मनैवचालने दृष्टान्तः— जिह्वयाहन्वेव द्विवचनस्यआकारः हनूइव तौयथारसनयाचाल्येते तद्वत् यद्यप्येवंतथापिइषांअन्ना- नां तत्साधनानां सस्यानां यामनि प्राप्तौसमृद्भ्यर्थं धन्वच्युतोन धन्वन् शब्दोन्तरिक्षस्यवचनः तेनत- त्स्थमुदकंलक्ष्यते उदकस्राविणोमेघाइव तेयथाआकांक्ष्यन्ते तथायुष्मानन्नादिप्राप्तये पुरुप्रैषाः बहुवि- धं फलमिच्छन् यजमानः स्तोत्रैः बहुप्रकारमाकारयतीत्यर्थः तत्रदृष्टान्तः—अहन्यः अह्निभवः एत- शोन अश्वइव सयथा शिक्षकेणनानाप्रकारं प्राप्यते तद्वत् ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः