मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् ६

संहिता

क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य ।
यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥

पदपाठः

क्व॑ । स्वि॒त् । अ॒स्य । रज॑सः । म॒हः । पर॑म् । क्व॑ । अव॑रम् । म॒रु॒तः॒ । यस्मि॑न् । आ॒ऽय॒य ।
यत् । च्य॒वय॑थ । वि॒थु॒राऽइ॑व । सम्ऽहि॑तम् । वि । अद्रि॑णा । प॒त॒थ॒ । त्वे॒षम् । अ॒र्ण॒वम् ॥

सायणभाष्यम्

हेमरुतः यूयंयस्मिन्नुदकनिमित्तभूतेसतिआययाअगच्छत अस्यरजसोवृष्ट्युदकस्यलोकस्य वाम- होमहतः परंपारं अन्तंक्वस्वित् कुत्रास्तीति नास्तीत्यर्थः तथा अवरं अवाङ्मागाआदिश्च क्वस्वित् कु- त्रास्ति आद्यन्तंनकोपिजानातीत्यर्थः यद्यदायूयंविथुरेववि थुराणिशिथिलानितृणानीवसंहितंएक- भूतंउदकंच्यावयथस्वस्थानाच्चालयथ तदा अद्रिणावज्रेणत्वेषंदीप्तं अर्णवं उदकवन्तंमेघंविपतथवि- शीर्णंपातयथ ॥ ६ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः