मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् ७

संहिता

सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुत॒ः पिपि॑ष्वती ।
भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जञ्ज॑ती ॥

पदपाठः

सा॒तिः । न । वः॒ । अम॑ऽवती । स्वः॑ऽवती । त्वे॒षा । विऽपा॑का । म॒रु॒तः॒ । पिपि॑ष्वती ।
भ॒द्रा । वः॒ । रा॒तिः । पृ॒ण॒तः । न । दक्षि॑णा । पृ॒थु॒ऽज्रयी॑ । असु॒र्या॑ऽइव । जञ्ज॑ती ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकंसबन्धिनीसातिर्न संभक्तिरिव युष्मत् संभजनंयथाप्रशस्तगुणंतद्वद्वोरातिः वृ- ष्ट्यादिविषया अमवती अमात्यवती इन्द्रादिसहायवती यथाराजेवामवानित्यत्रामशब्दोमात्यवच- नः तद्वत् यद्वा वःसातिः संविभक्तिर्नामवतीरोगव्तीनभवति किन्तुस्वर्वतीसुखवतीत्वेषादीप्ताविपा- कापरिपक्वफलापिपिष्वतीपेषणवती कृषीवलैः कर्षणवतीवृष्टौसत्यांकर्षन्तीतिप्रसिद्धम् स्वविरोधिपे- षणवतीवाभद्राभन्दनीयास्तुत्या किञ्च पृणतोदातुर्धनिकस्यदक्षिणान दक्षिणेव तद्वत् सम्रुद्धकरी पृथु- ज्रयीपृथुजवाशीघ्रगामिनी किञ्च असुर्येव असुरस्यस्वभूता जञ्चतीसर्वानभिभवन्तीशक्तिरिव साय- थान्येभ्योपहृत्यान्यस्मैदातुंसमर्थातद्वदियमपिमेघस्थमुदकमपहृत्यजगतोदातुंशक्तेत्यर्थः ईदृशीराति- रस्मभ्यमस्त्वितिभावः ॥ ७ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः