मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् ८

संहिता

प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति ।
अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी॑ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑ ॥

पदपाठः

प्रति॑ । स्तो॒भ॒न्ति॒ । सिन्ध॑वः । प॒विऽभ्यः॑ । यत् । अ॒भ्रिया॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्ति ।
अव॑ । स्म॒य॒न्त॒ । वि॒ऽद्युतः॑ । पृ॒थि॒व्याम् । यदि॑ । घृ॒तम् । म॒रुतः॑ । प्रु॒ष्णु॒वन्ति॑ ॥

सायणभाष्यम्

पविभ्योमरुत्संबन्धिवज्रेभ्यः सिन्धवः स्यन्दनशीलाआपः प्रतिष्टोभन्ति प्रतिचलन्ति कदा यत्- यदाअभ्रियांअभ्रभवांवाचंशब्दंस्तनितलक्षणंउदीरयन्त्युच्चारयन्तिवज्राणि किञ्च विद्युताः विद्योतमा- नाः तडितः पृथव्यांअन्तरिक्षेपृथिवीत्यन्तरिक्षनाम पृथिव्यामित्येतदुत्तरत्रवायोज्यं यदि यदा पृथि- व्यांभूम्यांघृतंक्षरदुदकंमरुतः प्रुष्णुवन्तिप्रुष्णन्ति सिञ्चन्ति प्रुषेःक्रैयादिकस्यव्यत्ययेनश्नुः यदैवंतदेत्य- र्थः ॥ ८ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः