मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६९, ऋक् १

संहिता

म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता ।
स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥

पदपाठः

म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता ।
सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नु॒ष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥

सायणभाष्यम्

हेइन्द्र त्वं यतःकारणात् एतान्मरुतोमहश्चित् महतोपिसामर्थ्यातिशयवत्त्वात् त्वन्निरपेक्षोपिस्ने- हान्नत्यजसीतिशेषः अतःकारणात् महश्चिदसि चिदितिपादपूरणः यद्वा महतोपित्यजसः त्यागात् यद्वैतत् क्रोधनाम क्रोधाद्वा वरूतावरितारक्षितासिभवसि यद्वा मरुतोपित्यागात् वृष्ट्यादिविष- यात् वारयितासि यस्मादेवंतस्मात् हेमरुतांवेधः विधातः सतादृशस्त्वंचि कित्वान् चेतनावान् अस्मदनुग्रहविषयज्ञानोपेतःसन् नोस्मभ्यं सुम्ना सुखानि मरुदायत्तानिवृष्ट्यादिरूपाणिवनुष्व देहि तानिसुम्नानितवहिप्रेष्ठा तवखलुप्रियतमानि हिशब्दोयमिन्द्रोमरुत्सखेत्यादिश्रुतिषुप्रसिद्भ्यर्थः ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः