मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६९, ऋक् ४

संहिता

त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् ।
स्तुत॑श्च॒ यास्ते॑ च॒कन॑न्त वा॒योः स्तनं॒ न मध्व॑ः पीपयन्त॒ वाजै॑ः ॥

पदपाठः

त्वम् । तु । नः॒ । इ॒न्द्र॒ । तम् । र॒यिम् । दाः॒ । ओजि॑ष्ठया । दक्षि॑णयाऽइव । रा॒तिम् ।
स्तुतः॑ । च॒ । याः । ते॒ । च॒कन॑न्त । वा॒योः । स्तन॑म् । न । मध्वः॑ । पी॒प॒य॒न्त॒ । वाजैः॑ ॥

सायणभाष्यम्

हेइन्द्र त्वंतु तुअवधारणे त्वमेव तंरयिंत्वद्दानयोग्यंगवादिधनंदाः देहि यस्मादितरेभ्योपित्वमे- वबहुप्रदः अतोतिमहद्धनंदेहीत्यर्थः वयंतु ओजिष्ठयाओजस्वितमयापरिक्रमणार्हयादक्षिणयासमृद्धि- साधनयगवादिलक्षणया ऋत्विजमिवरातिंदातारंत्वांप्रीणयमइतिशेषः यद्वा दक्षिणाशब्दोदेयद्रव्य- सामान्यवचनः रातिशब्दोबन्धुवचनः हिरण्यादिसारवद्द्रव्यप्रदानेनबन्धुंयथावशीकुर्वन्ति तद्वत् त्वांवशीकुर्मइत्यर्थः किञ्च वायोःक्षेपिष्ठस्यशीघ्रवरप्रदस्य ते कर्मणिषष्ठी वायुंत्वांस्तुतः येस्मदीयाः स्तोतारः चकनन्त कामयन्ते स्तुवन् याः स्तुतयः ताअपित्वामेवकामयन्तेतिवायोजना कनतेर्ण्यन्ता- ल्लुङिचङिरूपं चङ्यन्यतरस्यामिति चङ्ः पूर्वमक्षरमुदात्तं होत्रादयोवाजैर्हविर्लक्षणैरन्नैः पीपयन्त आप्याययन्ति तत्रदृष्ट्न्तः—मध्वोमधुरस्यस्तन्यस्यलाभाय वाजैः सारवद्भिरन्नविशेषैः स्तनंन तंयथाआप्याययन्तितद्वत् वयं त्वां बहुकृतप्रदानाय स्तुत्याहविषाप्याययामः त्वंतु दातव्यत्वेनप्र- सिद्धंधनंसर्वदादेहीत्यर्थः ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः