मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७०, ऋक् २

संहिता

किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
तेभि॑ः कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ॥

पदपाठः

किम् । नः॒ । इ॒न्द्र॒ । जि॒घां॒स॒सि॒ । भ्रात॑रः । म॒रुतः॑ । तव॑ ।
तेभिः॑ । क॒ल्प॒स्व॒ । सा॒धु॒ऽया । मा । नः॒ । स॒म्ऽअर॑णे । व॒धीः॒ ॥

सायणभाष्यम्

इदमग्स्त्यवाक्यं हेइन्द्र नोस्माननपराधिनः किंजिघांससि हन्तुमिच्छसि कथमवध्यत्वमित्यत- आह—मरुतस्तवभ्रातरः त्वयाभोगप्रदानेनभरणीयाइत्यर्थः अतोवयमवध्याइत्युक्तंभवति मरुता- मिन्द्रभ्रातृत्वमेकस्मिन्नेवदितिगर्भेउत्पन्नत्वात् साचोत्पत्तिःपुराणेषुप्रसिद्धा सन्तुभ्रातरः ततश्चकिमि- त्यतआह—तेभिस्तैर्मरुद्भिःसह साधुयासाधुत्वंकल्पस्व कल्पय हविर्भागान्तैः सहयुद्धंवानोस्मान् स- मरणेसङ्ग्रामेमावधीः माहिंसीः यद्वा कॢप्तेर्दृष्टान्तः—सङ्ग्रामेयथाविरोधिनंहंसिनतथास्मानिति ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०