मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७०, ऋक् ३

संहिता

किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥

पदपाठः

किम् । नः॒ । भ्रा॒तः॒ । अ॒ग॒स्त्य॒ । सखा॑ । सन् । अति॑ । म॒न्य॒से॒ ।
वि॒द्म । हि । ते॒ । यथा॑ । मनः॑ । अ॒स्मभ्य॑म् । इत् । न । दि॒त्स॒सि॒ ॥

सायणभाष्यम्

इदमिन्द्रवाक्यं हेभ्रातः हेअगस्त्य हविःप्रदानवरप्रदानाभ्यांपरस्परोपकारकत्वाद्भ्यतृत्वं तादृश- स्त्वं सखासन् अस्मद्धितकार्यपिसन् नोस्मान् किमतिमन्यसे कस्मादपराधादतिक्रम्यमनुपे अपलपसि नायमपलापः किन्तु तथ्यमेवेतिचेदुच्यते मन्तव्यंतेतव मनोमानसंयथायथावत् विद्मजानीमः कथं- जानीथेतिउच्यते अस्मभ्यमिन्नदित्ससि अस्मदर्थंनिरुप्तमस्मभ्यंदातुंनेच्छस्येव इदेवार्थे ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०