मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७०, ऋक् ५

संहिता

त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑ः ।
इन्द्र॒ त्वं म॒रुद्भि॒ः सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥

पदपाठः

त्वम् । ई॒शि॒षे॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । त्वम् । मि॒त्राणा॑म् । मि॒त्र॒ऽप॒ते॒ । धेष्ठः॑ ।
इन्द्र॑ । त्वम् । म॒रुत्ऽभिः॑ । सम् । व॒द॒स्व॒ । अध॑ । प्र । अ॒शा॒न॒ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ॥

सायणभाष्यम्

इदमगस्त्यवाक्यं हेवसूनांवसुपते अतिप्रभूतानांपुरोडाशाज्यादिधनानांस्वामिन् हेइन्द्र त्वमीशि- षे ईश्वरोभवसि सर्वस्यवृत्त्यवृत्तिभ्यांबहुत्वंनित्यसंबन्धश्च्प्रतिपद्यते यद्वा हेवसुपते वसूनामीशिषेइ- तियोजना द्वितीयोवसुश्ब्दोनुवादोवा तथा हेमित्राणांमित्रपते अस्मदादिमित्रस्य नित्यंपालकेन्द्र त्वंधेष्ठः सर्वस्यातिशयेनधारकोसि हेइन्द्र त्वंउक्तमहिमस्त्वंमरुद्भिः संवदस्व तैः साकंसम्यक् कृत- मितिवदस्व अध अपिच त्वंऋतुथा ऋतावृतौ उपलक्षणमेतत्कालस्य तत्तद्यागकालेहवींषिआज्य- चर्वादीनिप्राशनप्रकर्षेणभुंक्ष्व ॥ ५ ॥

प्रतिवइतिषळृचंसप्तमंसूक्तं आगस्त्यं त्रैष्टुभं मारुतं आद्येद्वेकेवलमारुते शिष्टाश्चतस्रोमरुत्वदिन्द्र- देवताकाः प्रतिवःषण्मारुतंतुचतस्रोन्त्यामरुत्वतीयाइत्यनुक्रमणिका विशेषविनियोगोलैङ्गिकः ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०