मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७१, ऋक् १

संहिता

प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा॑म् ।
र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥

पदपाठः

प्रति॑ । वः॒ । ए॒ना । नम॑सा । अ॒हम् । ए॒मि॒ । सु॒ऽउ॒क्तेन॑ । भि॒क्षे॒ । सु॒ऽम॒तिम् । तु॒राणा॑म् ।
र॒रा॒णता॑ । म॒रु॒तः॒ । वे॒द्याभिः॑ । नि । हेळः॑ । ध॒त्त । वि । मु॒च॒ध्व॒म् । अश्वा॑न् ॥

सायणभाष्यम्

हेमरुतः वोयुष्मानहंप्रत्येमि अभिगच्छामि केनसाधनेन नमसानमस्कारेण हविषावा नमइत्य- न्ननाम यथासूक्तेनशोभनवचनेनस्तुतिरूपेणतुराणांत्वरमाणानांशत्रूणांहिंसकानांवायुष्माकं सुमतिं- शोभनमतिं अनुग्रहबुद्धिं भिक्षे याचे इन्द्रस्यैवपुनर्हविःप्रदानादिदंयाच्यते किञ्च हेमरुतः यूयंवेद्याभि- र्वेदितव्याभिः स्तुतिभीरराणता रममाणेनमनसाइत्थंभूताःसन्तोहेळः क्रोधनामैतत् क्रोधंयुष्मदभिज- नितंनिधत्त निकृष्टंधारयत त्यजतेत्यर्थः तथाऽश्वान् विमुचध्वंरथेभ्योवियोजयत क्रोधात्पुनर्गमनं- माकुरुतेत्यर्थः ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११