मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७१, ऋक् २

संहिता

ए॒ष व॒ः स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः ।
उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धासः॑ ॥

पदपाठः

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । नम॑स्वान् । हृ॒दा । त॒ष्टः । मन॑सा । धा॒यि॒ । दे॒वाः॒ ।
उप॑ । ई॒म् । आ । या॒त॒ । मन॑सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम॑सः । इत् । वृ॒धासः॑ ॥

सायणभाष्यम्

हेमरुतः एषवः स्तोमः इदानींक्रियमाणः प्रकारोवोयुष्माकंयुष्मदर्थइत्यर्थः कीदृशोयं नमस्वान् नमइत्यन्ननाम हविर्लक्षणान्नवान् नकेवलंस्तुतिमात्रं भक्षणायहविरपियुष्माकमित्यर्थः किञ्च हृदा- तष्टः युष्मन्निवेदनबुद्ध्यासंपादितः तादृशःस्तोमोहेदेवाः देवनशीलाः मनसा अनुग्रहवता चित्तेनधा- यि धार्यतां तदर्थंमनसाआदरबुद्भ्याजुषाणाः ईमेनांस्तुतिंतद्धविश्चसेवमानाः उपायात उपागच्छतैव माविलंबंकुरुत यूयंनमसोन्नस्यहवीरूपस्यवृधासः स्थहि वर्धयितारोभवथखलु अतआगन्तव्यमेव इत्पूरणः ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११