मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७१, ऋक् ३

संहिता

स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः ।
ऊ॒र्ध्वा नः॑ सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥

पदपाठः

स्तु॒तासः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । उ॒त । स्तु॒तः । म॒घऽवा॑ । शम्ऽभ॑विष्ठः ।
ऊ॒र्ध्वा । नः॒ । स॒न्तु॒ । को॒म्या । वना॑नि । अहा॑नि । विश्वा॑ । म॒रु॒तः॒ । जि॒गी॒षा ॥

सायणभाष्यम्

तेमरुतः स्तुतासः स्तुताःसन्तोनोस्मान्मृळयन्तु सुखयन्तु उतअपिच मघवा मघमितिधननाम अ- स्मद्दातव्यबहुधनेन तद्वानिन्द्रः स्तुतःशंभविष्ठः सुखस्यभावयितृतमःसन् अस्मान्मृळयन्तु किञ्च हेम- रुतोनोस्माकं जिगीषा जिगातेर्गतिकर्मणोजिगीषा जिगीषितव्यानि प्राप्तव्यानि उत्तरत्रानुभूयमाना- नि विश्वा सर्वाण्यहानि दिवसानि ऊर्ध्वा उन्नतानिउपर्युपरिश्रियायशसावोत्कृष्टानिकोम्याकोम्यानि- स्पृहणीयानिवनानिसर्वैः संभजनीयानिसन्तु जिगीषाजेतुमिष्टानिजेतव्यानिचसन्त्वितिवायोज्यं एवंक्कुत्वामरुतइन्द्रश्चसुखयन्त्वित्यर्थः ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११