मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७१, ऋक् ५

संहिता

येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् ।
स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒ः स्थवि॑रः सहो॒दाः ॥

पदपाठः

येन॑ । माना॑सः । चि॒तय॑न्ते । उ॒स्राः । विऽउ॑ष्टिषु । शव॑सा । शश्व॑तीनाम् ।
सः । नः॒ । म॒रुत्ऽभिः॑ । वृ॒ष॒भ॒ । श्रवः॑ । धाः॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । स्थवि॑रः । स॒हः॒ऽदाः ॥

सायणभाष्यम्

हेइन्द्र श्वसाबलभूतेन त्वयानुगृहीताः मानासोमान्याः त्वयाभिमानितावा उस्रारश्मयः शश्वती- नांनित्यानांबह्वीनांउषसांव्युष्टिषुसतीषुप्रकाशेषुसत्सु चितयन्तेचेतयन्ते प्राणिनां स्वस्वव्यवहारा- यप्रज्ञापयन्ते ऎन्द्भांदिशितेनैवानुगृहीताउषसोरश्मयउद्गच्छन्तीतिप्रसिद्धं हेवृषभ वर्षितरिन्द्र सता- दृशस्त्वंमरुद्भिःसहितः नः अस्माकं श्रवोधाः सर्वत्रश्रूयमाणमन्नंधेहिस्थापयदेहीत्यर्थः कीदृशस्त्वं उग्रः उद्गूर्णबलः सहोदाः पराभिभवसमर्थंबलंसहस्तस्यदाता स्थविरः पुरातनः कीदृशैर्मरुद्भिः उग्रेभिः कूरबलैः एवं महानुभावोन्नंदेहि ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११